Sukta 3.59
महाँ आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥
म॒हाँ आ॑दि॒त्यो नम॑सोप॒सद्यो॑ यात॒यज्ज॑नो गृण॒ते सु॒शेव॑: । तस्मा॑ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ॥
mahā́n ādityó námasopasádyo yātayáj-jano gṛṇaté suśévaḥ | tásmā etát pányatamāya júṣṭam agnáu mitrā́ya havír ā́ juhota ||
Great is the Āditya, approachable by reverence, who sets men on the right path and is gracious to the singer. Therefore offer into Agni this oblation—most worthy and pleasing—for Mitra who is most admirable.
म॒हान् । आ॒दि॒त्यः । नम॑सा । उ॒प॒ऽसद्यः॑ । या॒त॒यत्ऽज॑नः । गृ॒ण॒ते । सु॒ऽशेवः॑ । तस्मै॑ । ए॒तत् । पन्य॑ऽतमाय । जुष्ट॑म् । अ॒ग्नौ । मि॒त्राय॑ । ह॒विः । आ । जु॒हो॒त॒ ॥महान् । आदित्यः । नमसा । उपसद्यः । यातयत्जनः । गृणते । सुशेवः । तस्मै । एतत् । पन्यतमाय । जुष्टम् । अग्नौ । मित्राय । हविः । आ । जुहोत ॥mahān | ādityaḥ | namasā | upa-sadyaḥ | yātayat-janaḥ | gṛṇate | su-śevaḥ | tasmai | etat | panya-tamāya | juṣṭam | agnau | mitrāya | haviḥ | ā | juhota