Sukta 3.59
अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
अ॒यं मि॒त्रो न॑म॒स्य॑: सु॒शेवो॒ राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
ayám mitró namasyàḥ suśévo rājā́ sukṣatró ajaniṣṭa vedhā́ḥ | tásya vayám sumatáu yajñíyasyā́pi bhadré saúmanase syā́ma ||
This Mitra is to be bowed to—benign, a king of good dominion, a wise disposer born for the work. In the right understanding of that adorable Power, may we be also in the glad and auspicious harmony of the soul.
अ॒यम् । मि॒त्रः । न॒म॒स्यः॑ । सु॒ऽशेवः॑ । राजा॑ । सु॒ऽक्ष॒त्रः । अ॒ज॒नि॒ष्ट॒ । वे॒धाः । तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ॥अयम् । मित्रः । नमस्यः । सुशेवः । राजा । सुक्षत्रः । अजनिष्ट । वेधाः । तस्य । वयम् । सुमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ॥ayam | mitraḥ | namasyaḥ | su-śevaḥ | rājā | su-kṣatraḥ | ajaniṣṭa | vedhāḥ | tasya | vayam | su-matau | yajñiyasya | api | bhadre | saumanase | syāma