Sukta 3.58
अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः । रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥
अश्वि॑ना॒ परि॑ वा॒मिष॑: पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः । रथो॑ ह वामृत॒जा अद्रि॑जूत॒: परि॒ द्यावा॑पृथि॒वी या॑ति स॒द्यः ॥
aśvínā pári vām íṣaḥ purūcī́r īyur gī́rbhir yátamānā amṛ́dhrāḥ | rátho ha vām ṛtajā́ ádrijūtaḥ pári dyā́vāpṛthivī́ yāti sadyáḥ ||
O Ashvins, around you move many-sided impulsions, striving with hymns and never failing. Your chariot, born of Ṛta and driven by the pressing-stone’s force, circles Heaven and Earth in an instant.
अश्वि॑ना । परि॑ । वा॒म् । इषः॑ । पु॒रू॒चीः । ई॒युः । गीः॒ऽभिः । यत॑मानाः । अमृ॑ध्राः । रथः॑ । ह॒ । वा॒म् । ऋ॒त॒ऽजाः । अद्रि॑ऽजूतः । परि॑ । द्यावा॑पृथि॒वी इति॑ । या॒ति॒ । स॒द्यः ॥अश्विना । परि । वाम् । इषः । पुरूचीः । ईयुः । गीःभिः । यतमानाः । अमृध्राः । रथः । ह । वाम् । ऋतजाः । अद्रिजूतः । परि । द्यावापृथिवी इति । याति । सद्यः ॥aśvinā | pari | vām | iṣaḥ | purūcīḥ | īyuḥ | gīḥ-bhiḥ | yatamānāḥ | amṛdhrāḥ | rathaḥ | ha | vām | ṛta-jāḥ | adri-jūtaḥ | pari | dyāvāpṛthivī iti | yāti | sadyaḥ