Sukta 3.58
अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे । रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥
अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकु॒: सोम॒स्तं पा॑त॒मा ग॑तं दुरो॒णे । रथो॑ ह वां॒ भूरि॒ वर्प॒: करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ॥
aśvínā madhusúttamo yuvā́kuḥ sómas táṁ pātam ā́ gataṁ duroṇé | rátho ha vām bhū́ri várpaḥ kárikrat sutā́vato niṣkṛtám ā́gamiṣṭhaḥ ||
O Ashvins, the soma most rich in honey-sweetness is pressed and calling; drink it—come into the house. Your chariot, vast in beauty and form, has reached the prepared place of the presser.
अश्वि॑ना । म॒धु॒सुत्ऽत॑मः । यु॒वाकुः॑ । सोमः॑ । तम् । पा॒त॒म् । आ । ग॒त॒म् । दु॒रो॒णे । रथः॑ । ह॒ । वा॒म् । भूरि॑ । वर्पः॑ । करि॑क्रत् । सु॒तऽव॑तः । निः॒ऽकृ॒तम् । आऽग॑मिष्ठः ॥अश्विना । मधुसुत्तमः । युवाकुः । सोमः । तम् । पातम् । आ । गतम् । दुरोणे । रथः । ह । वाम् । भूरि । वर्पः । करिक्रत् । सुतवतः । निःकृतम् । आगमिष्ठः ॥aśvinā | madhusut-tamaḥ | yuvākuḥ | somaḥ | tam | pātam | ā | gatam | duroṇe | rathaḥ | ha | vām | bhūri | varpaḥ | karikrat | suta-vataḥ | niḥ-kṛtam | āgamiṣṭhaḥ