Sukta 3.58
अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना । नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥
अश्वि॑ना वा॒युना॑ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना । नास॑त्या ति॒रोअ॑ह्न्यं जुषा॒णा सोमं॑ पिबतम॒स्रिधा॑ सुदानू ॥
aśvínā vāyúnā yuváṁ sudákṣā niyúdbhhiś ca sajóṣasā yuvānā | nā́satyā tiróahnyaṁ juṣāṇā sómaṁ pibatam asrídhā sudānū ||
O Ashvins, together with Vāyu, you youthful ones of good discernment, joined with your teams in one delight—O Nāsatyas, enjoying the soma that is beyond the day, drink it without failing, O generous givers.
अश्वि॑ना । वा॒युना॑ । यु॒वम् । सु॒ऽद॒क्षा॒ । नि॒युत्ऽभिः॑ । च॒ । स॒ऽजोष॑सा । यु॒वा॒ना॒ । नास॑त्या । ति॒रःऽअ॑ह्न्यम् । जु॒षा॒णा । सोम॑म् । पि॒ब॒त॒म् । अ॒स्रिधा॑ । सु॒दा॒नू॒ इति॑ सुऽदानू ॥अश्विना । वायुना । युवम् । सुदक्षा । नियुत्भिः । च । सजोषसा । युवाना । नासत्या । तिरःअह्न्यम् । जुषाणा । सोमम् । पिबतम् । अस्रिधा । सुदानू इति सुदानू ॥aśvinā | vāyunā | yuvam | su-dakṣā | niyut-bhiḥ | ca | sa-joṣasā | yuvānā | nāsatyā | tiraḥ-ahnyam | juṣāṇā | somam | pibatam | asridhā | sudānūitisu-dānū