Sukta 3.58
तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु । एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥
ति॒रः पु॒रू चि॑दश्विना॒ रजां॑स्याङ्गू॒षो वां॑ मघवाना॒ जने॑षु । एह या॑तं प॒थिभि॑र्देव॒यानै॒र्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥
tirás purū́ cid aśvinā rájāṁsy āṅgūṣó vām maghavānā jánēṣu | éha yātaṁ pathíbhir devayā́naiḥ dásrāv imé vām nidháyo mádhūnām ||
Across many worlds, O Ashvins, your inspirer’s cry moves among the peoples, O bountiful ones. Come here by the godward paths, O Wonder-workers; here are your treasuries of honeyed delight.
ति॒रः । पु॒रु । चि॒त् । अ॒श्वि॒ना॒ । रजां॑सि । आ॒ङ्गू॒षः । वा॒म् । म॒घ॒ऽवा॒ना॒ । जने॑षु । आ । इ॒ह । या॒त॒म् । प॒थिऽभिः॑ । दे॒व॒ऽयानैः॑ । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥तिरः । पुरु । चित् । अश्विना । रजांसि । आङ्गूषः । वाम् । मघवाना । जनेषु । आ । इह । यातम् । पथिभिः । देवयानैः । दस्रौ । इमे । वाम् । निधयः । मधूनाम् ॥tiraḥ | puru | cit | aśvinā | rajāṃsi | āṅgūṣaḥ | vām | magha-vānā | janeṣu | ā | iha | yātam | pathi-bhiḥ | deva-yānaiḥ | dasrau | ime | vām | ni-dhayaḥ | madhūnām