Sukta 3.58
आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते । इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥
आ म॑न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना॑सो अ॒श्विना॑ हवन्ते । इ॒मा हि वां॒ गोऋ॑जीका॒ मधू॑नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे॑ ॥
ā́ manyethām ā́ gataṁ kác cid évair víśve jánāso aśvínā havante | imā́ hí vām góṛjīkā mádhūni prá mitrā́so ná dadur usrò ágre ||
Come, perceive and arrive: do not all peoples call you with their eager impulses? For these honeyed sweetnesses of your light-winning are given forth in front, like friendly powers offering at the beginning of the dawn-red glow.
आ । म॒न्ये॒था॒म् । आ । ग॒त॒म् । कत् । चि॒त् । एवैः॑ । विश्वे॑ । जना॑सः । अ॒श्विना॑ । ह॒व॒न्ते॒ । इ॒मा । हि । वा॒म् । गोऽऋ॑जीका । मधू॑नि । प्र । मि॒त्रासः॑ । न । द॒दुः । उ॒स्रः । अग्रे॑ ॥आ । मन्येथाम् । आ । गतम् । कत् । चित् । एवैः । विश्वे । जनासः । अश्विना । हवन्ते । इमा । हि । वाम् । गोऋजीका । मधूनि । प्र । मित्रासः । न । ददुः । उस्रः । अग्रे ॥ā | manyethām | ā | gatam | kat | cit | evaiḥ | viśve | janāsaḥ | aśvinā | havante | imā | hi | vām | go--ṛjīkā | madhūni | pra | mitrāsaḥ | na | daduḥ | usraḥ | agre