Sukta 3.58
सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः । किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
सु॒युग्भि॒रश्वै॑: सु॒वृता॒ रथे॑न॒ दस्रा॑वि॒मं शृ॑णुतं॒ श्लोक॒मद्रे॑: । किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा॑सो अश्विना पुरा॒जाः ॥
suyúgbhir áśvaiḥ suvṛ́tā ráthena dásrāv imáṁ śṛṇutaṁ ślókám ádreḥ | kím áṅga vām práty avàrtiṁ gámiṣṭhā́hur víprāso aśvinā purājā́ḥ ||
With well-yoked horses and your well-turning chariot, O Wonder-workers, hear this uttered word of the pressing-stone. Why indeed do the inspired seers of old call you ‘the swiftest to return in answer’?
सु॒युक्ऽभिः॑ । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । दस्रौ॑ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक॑म् । अद्रेः॑ । किम् । अ॒ङ्ग । वा॒म् । प्रति॑ । अव॑र्तिम् । गमि॑ष्ठा । आ॒हुः । विप्रा॑सः । अ॒श्वि॒ना॒ । पु॒रा॒ऽजाः ॥सुयुक्भिः । अश्वैः । सुवृता । रथेन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः । किम् । अङ्ग । वाम् । प्रति । अवर्तिम् । गमिष्ठा । आहुः । विप्रासः । अश्विना । पुराजाः ॥suyuk-bhiḥ | aśvaiḥ | su-vṛtā | rathena | dasrau | imam | śṛṇutam | ślokam | adreḥ | kim | aṅga | vām | prati | avartim | gamiṣṭhā | āhuḥ | viprāsaḥ | aśvinā | purājāḥ