Sukta 3.58
सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः । जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥
सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे॑व॒ मेधा॑: । जरे॑थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या॑तम॒र्वाक् ॥
suyúg vahanti práti vām ṛténōrdhvā́ bhavanti pitaréva médhāḥ | járēthām asmád ví paṇér manīṣā́ṁ yuvór ávaś cakṛmá yātam arvā́k ||
Your well-yoked powers bear you hither in the law of Ṛta; our uplifted understandings rise like the Fathers’ wisdoms. Grow strong for us, and scatter the miser’s cramped thought; we have fashioned your help—come near to us.
सु॒ऽयुक् । व॒ह॒न्ति॒ । प्रति॑ । वा॒म् । ऋ॒तेन॑ । ऊ॒र्ध्वा । भ॒व॒न्ति॒ । पि॒तरा॑ऽइव । मेधाः॑ । जरे॑थाम् । अ॒स्मत् । वि । प॒णेः । म॒नी॒षाम् । यु॒वोः । अवः॑ । च॒कृ॒म॒ । आ । या॒त॒म् । अ॒र्वाक् ॥सुयुक् । वहन्ति । प्रति । वाम् । ऋतेन । ऊर्ध्वा । भवन्ति । पितराइव । मेधाः । जरेथाम् । अस्मत् । वि । पणेः । मनीषाम् । युवोः । अवः । चकृम । आ । यातम् । अर्वाक् ॥su-yuk | vahanti | prati | vām | ṛtena | ūrdhvā | bhavanti | pitarāiva | medhāḥ | jarethām | asmat | vi | paṇeḥ | manīṣām | yuvoḥ | avaḥ | cakṛma | ā | yātam | arvāk