Sukta 3.58
धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः । आ द्योतनिं वहति शुभ्रयामोषसः स्तोमो अश्विनावजीगः ॥
धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा॑ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः । आ द्यो॑त॒निं व॑हति शु॒भ्रया॑मो॒षस॒: स्तोमो॑ अ॒श्विना॑वजीगः ॥
dhénuḥ pratnásya kā́myaṁ dúhānā́ntáḥ putráś cárati dákṣiṇāyāḥ | ā́ dyòtaniṁ vahati śubhráyāmoṣásaḥ stómo aśvínāv ajīgaḥ ||
The Cow of Light, milking out the desirable delight of the ancient Truth, moves within as the child of Dakṣiṇā (the right-discerning offering). She brings the shining illumination; and the chant of Dawn has stirred the Ashvins into swift action.
धे॒नुः । प्र॒त्नस्य॑ । काम्य॑म् । दुहा॑ना । अ॒न्तरिति॑ । पु॒त्रः । च॒र॒ति॒ । दक्षि॑णायाः । आ । द्यो॒त॒निम् । व॒ह॒ति॒ । शु॒भ्रऽया॑मा । उ॒षसः॑ । स्तोमः॑ । अ॒श्विनौ॑ । अ॒जी॒ग॒रिति॑ ॥धेनुः । प्रत्नस्य । काम्यम् । दुहाना । अन्तरिति । पुत्रः । चरति । दक्षिणायाः । आ । द्योतनिम् । वहति । शुभ्रयामा । उषसः । स्तोमः । अश्विनौ । अजीगरिति ॥dhenuḥ | pratnasya | kāmyam | duhānā | antariti | putraḥ | carati | dakṣiṇāyāḥ | ā | dyotanim | vahati | śubhra-yāmā | uṣasaḥ | stomaḥ | aśvinau | ajīgariti