Sukta 3.52
पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः । अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥
पू॒ष॒ण्वते॑ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः । अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥
pūṣaṇváte te cakṛmā karambháṃ harívate háryaśvāya dhānā́ḥ | apū́pam addhi ságaṇo marúdbhíḥ sómaṃ piba vṛtra-hā śūra vidvā́n ||
For you who are full of fostering power, we have made the mixed nourishment; for you the lord of the bright steeds we have prepared the grains. Eat the formed cake with your host, with the Maruts; drink the Soma, O slayer of obstruction, O hero who knows the way of victory.
पू॒ष॒ण्ऽवते॑ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि॑ऽवते । हरि॑ऽअश्वाय । धा॒नाः । अ॒पू॒पम् । अ॒द्धि॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ॥पूषण्वते । ते । चकृम । करम्भम् । हरिवते । हरिअश्वाय । धानाः । अपूपम् । अद्धि । सगणः । मरुत्भिः । सोमम् । पिब । वृत्रहा । शूर । विद्वान् ॥pūṣaṇ-vate | te | cakṛma | karambham | hari-vate | hari-aśvāya | dhānāḥ | apūpam | addhi | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān