Sukta 3.52
तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः । ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥
तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः । ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभि॑: ॥
tṛtī́ye dhānā́ḥ sávane puru-stuta puroḷā́śam ā́hutaṃ mamahasva naḥ | ṛbhúmantaṃ vā́javantam tvā kave práyasvanta úpa śikṣema dhītíbhiḥ ||
In the third pressing, O much-praised one, accept the grains and the offered puroḷāśa and magnify us. O poet-power, rich in skilful formation and plenitude of force, may we, bringing our prepared energies, learn to approach you by luminous discernments.
तृ॒तीये॑ । धा॒नाः । सव॑ने । पु॒रु॒ऽस्तु॒त॒ । पु॒रो॒ळाश॑म् । आऽहु॑तम् । म॒म॒ह॒स्व॒ । नः॒ । ऋ॒भु॒ऽमन्त॑म् । वाज॑ऽवन्तम् । त्वा॒ । क॒वे॒ । प्रय॑स्वन्तः । उप॑ । शि॒क्षे॒म॒ । धी॒तिऽभिः॑ ॥तृतीये । धानाः । सवने । पुरुस्तुत । पुरोळाशम् । आहुतम् । ममहस्व । नः । ऋभुमन्तम् । वाजवन्तम् । त्वा । कवे । प्रयस्वन्तः । उप । शिक्षेम । धीतिभिः ॥tṛtīye | dhānāḥ | savane | puru-stuta | puroḷāśam | āhutam | mamahasva | naḥ | ṛbhu-mantam | vāja-vantam | tvā | kave | prayasvantaḥ | upa | śikṣema | dhīti--bhiḥ