Sukta 3.52
पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः । इन्द्र क्रतुर्हि ते बृहन् ॥
पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः । इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥
puroḷā́śaṃ sanaśruta prātaḥ-sāvé juṣasva naḥ | índra krátur hí te bṛhán ||
O Indra, famed from of old, accept our puroḷāśa at the morning pressing; for vast indeed is your kratu—your effective will and luminous intelligence that orders the work.
पु॒रो॒ळास॑म् । स॒न॒ऽश्रु॒त॒ । प्रा॒तः॒ऽसा॒वे । जु॒ष॒स्व॒ । नः॒ । इन्द्र॑ । क्रतुः॑ । हि । ते॒ । बृ॒हन् ॥पुरोळासम् । सनश्रुत । प्रातःसावे । जुषस्व । नः । इन्द्र । क्रतुः । हि । ते । बृहन् ॥puroḷāsam | sana-śruta | prātaḥ-sāve | juṣasva | naḥ | indra | kratuḥ | hi | te | bṛhan