Sukta 3.51
अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः । तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥
अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः । तेभि॑: सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुष॒: स्वे स॒धस्थे॑ ॥
aptū́rye maruta ā́pir eṣó’mandann índram ánu dātívārāḥ | tébhiḥ sā́kaṃ pibatu vṛtrakhādáḥ sutáṃ sómaṃ dāśúṣaḥ své sadhásthe ||
In the Ap-tūrya movement, O Maruts, this near help has exhilarated Indra; the givers of gifts follow him. With them let the eater of Vṛtra drink the pressed Soma of the giver, in his own seat of communion.
अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः । तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥अप्तूर्ये । मरुतः । आपिः । एषः । अमन्दन् । इन्द्रम् । अनु । दातिवाराः । तेभिः । साकम् । पिबतु । वृत्रखादः । सुतम् । सोमम् । दाशुषः । स्वे । सधस्थे ॥ap-tūrye | marutaḥ | āpiḥ | eṣaḥ | amandan | indram | anu | dāti-vārāḥ | tebhiḥ | sākam | pibatu | vṛtra-khādaḥ | sutam | somam | dāśuṣaḥ | sve | sadha-sthe