Sukta 3.51
स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः । जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥
स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं न॑: । जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥
sá vāvashāná ihá pāhi sómaṃ marúdbhir indra sákhībhiḥ sutáṃ naḥ | jātáṃ yát tvā pári devā́ abhūṣan mahé bhárāya puruhūta víśve ||
In your glad eagerness drink here the Soma, O Indra, with the Maruts your comrades—this pressed delight of ours. Since at your birth all the gods adorned you for the great bearing, O much-invoked, for the universal work.
सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ । जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥सः । वावशानः । इह । पाहि । सोमम् । मरुत्भिः । इन्द्र । सखिभिः । सुतम् । नः । जातम् । यत् । त्वा । परि । देवाः । अभूषन् । महे । भराय । पुरुहूत । विश्वे ॥saḥ | vāvaśānaḥ | iha | pāhi | somam | marut-bhiḥ | indra | sakhi-bhiḥ | sutam | naḥ | jātam | yat | tvā | pari | devāḥ | abhūṣan | mahe | bharāya | puru-hūta | viśve