Sukta 3.51
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बः सु॒तस्य॑ । तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वय॑: सुय॒ज्ञाः ॥
índra marutva ihá pāhi sómaṃ yáthā śāryā́te ápibaḥ sutásya | táva práṇītī táva śūra śármann ā́ vivāsanti kaváyaḥ su-yajñā́ḥ ||
O Indra with the Maruts, drink here the Soma, as once you drank of the pressed offering at Śāryāta’s. By your leading and by your shelter, O hero, the seers of good sacrifice draw near and make their dwelling in the Light.
इन्द्र॑ । म॒रु॒त्वः॒ । इ॒ह । पा॒हि॒ । सोम॑म् । यथा॑ । शा॒र्या॒ते । अपि॑बः । सु॒तस्य॑ । तव॑ । प्रऽनी॑ती । तव॑ । शू॒र॒ । शर्म॑न् । आ । वि॒वा॒स॒न्ति॒ । क॒वयः॑ । सु॒ऽय॒ज्ञाः ॥इन्द्र । मरुत्वः । इह । पाहि । सोमम् । यथा । शार्याते । अपिबः । सुतस्य । तव । प्रनीती । तव । शूर । शर्मन् । आ । विवासन्ति । कवयः । सुयज्ञाः ॥indra | marutvaḥ | iha | pāhi | somam | yathā | śāryāte | apibaḥ | sutasya | tava | pra-nītī | tava | śūra | śarman | ā | vivāsanti | kavayaḥ | su-yajñāḥ