Sukta 3.51
तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व । बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥
तुभ्यं॒ ब्रह्मा॑णि॒ गिर॑ इन्द्र॒ तुभ्यं॑ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ । बो॒ध्या॒३॒॑पिरव॑सो॒ नूत॑नस्य॒ सखे॑ वसो जरि॒तृभ्यो॒ वयो॑ धाः ॥
túbhyaṃ bráhmāṇi gíra indra túbhyaṃ satrā́ dadhire harivo juṣásva | bodhy ā́pir aváso nū́tanasya sá khe vaso jaritṛ́bhyo váyo dhāḥ ||
To you are the mantras and the inspired words, O Indra; for you they are set forth always—O lord of the bright steeds, accept them. Awake as our near help, the ever-new protector; O friend, O giver of riches, place wideness of life in the singers.
तुभ्य॑म् । ब्रह्मा॑णि । गिरः॑ । इ॒न्द्र॒ । तुभ्य॑म् । स॒त्रा । द॒धि॒रे॒ । ह॒रि॒ऽवः॒ । जु॒षस्व॑ । बो॒धि । आ॒पिः । अव॑सः । नूत॑नस्य । सखे॑ । व॒सो॒ इति॑ । ज॒रि॒तृऽभ्यः॑ । वयः॑ । धाः॒ ॥तुभ्यम् । ब्रह्माणि । गिरः । इन्द्र । तुभ्यम् । सत्रा । दधिरे । हरिवः । जुषस्व । बोधि । आपिः । अवसः । नूतनस्य । सखे । वसो इति । जरितृभ्यः । वयः । धाः ॥tubhyam | brahmāṇi | giraḥ | indra | tubhyam | satrā | dadhire | hari-vaḥ | juṣasva | bodhi | āpiḥ | avasaḥ | nūtanasya | sakhe | vaso iti | jaritṛ-bhyaḥ | vayaḥ | dhāḥ