Sukta 3.51
पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति । इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥
पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये॑षु पु॒रू वसू॑नि पृथि॒वी बि॑भर्ति । इन्द्रा॑य॒ द्याव॒ ओष॑धीरु॒तापो॑ र॒यिं र॑क्षन्ति जी॒रयो॒ वना॑नि ॥
pūrvī́r asya niṣṣídho mártyeṣu purū́ vásūni pṛthivī́ bibharti | índrāya dyā́va óṣadhīr utā́po rayíṃ rakṣanti jīráyo vánāni ||
From of old, his sure foundations are set among mortals; the Earth bears many riches. For Indra, Heaven, the plants and the Waters guard the rayi—while the strong forests stand firm, supporting the increase of life-force.
पू॒र्वीः । अ॒स्य॒ । निः॒ऽसि॑धः॑ । मर्त्ये॑षु । पु॒रु । वसू॑नि । पृ॒थि॒वी । बि॒भ॒र्ति॒ । इन्द्रा॑य । द्यावः॑ । ओष॑धीः । उ॒त । आपः॑ । र॒यिम् । र॒क्ष॒न्ति॒ । जी॒रयः॑ । वना॑नि ॥पूर्वीः । अस्य । निःसिधः । मर्त्येषु । पुरु । वसूनि । पृथिवी । बिभर्ति । इन्द्राय । द्यावः । ओषधीः । उत । आपः । रयिम् । रक्षन्ति । जीरयः । वनानि ॥pūrvīḥ | asya | niḥ-sidhaḥ | martyeṣu | puru | vasūni | pṛthivī | bibharti | indrāya | dyāvaḥ | oṣadhīḥ | uta | āpaḥ | rayim | rakṣanti | jīrayaḥ | vanāni