Sukta 3.51
नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः । सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥
नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाध॑: । सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो॑ अस्य प्र॒दिव॒ एक॑ ईशे ॥
nṛṇām u tvā nṛ́tamaṃ gīrbhir uktháir abhí prá vīrám arcata sabā́dhaḥ | sáṃ sáhase purumāyó jihīte námo asya pradíva éka īśe ||
O men, praise Indra, the most manful, with inspired words and hymns; adore the hero who breaks through resistances. He gathers strength for his mighty force, the wielder of many powers of formation; to him alone, the far-shining, belongs our obeisance and mastery.
नृ॒णाम् । ऊँ॒ इति॑ । त्वा॒ । नृऽत॑मम् । गीः॒ऽभिः । उ॒क्थैः । अ॒भि । प्र । वी॒रम् । अ॒र्च॒त॒ । स॒ऽबाधः॑ । सम् । सह॑से । पु॒रु॒ऽमा॒यः । जि॒ही॒ते॒ । नमः॑ । अ॒स्य॒ । प्र॒ऽदिवः॑ । एकः॑ । ई॒शे॒ ॥नृणाम् । ऊँ इति । त्वा । नृतमम् । गीःभिः । उक्थैः । अभि । प्र । वीरम् । अर्चत । सबाधः । सम् । सहसे । पुरुमायः । जिहीते । नमः । अस्य । प्रदिवः । एकः । ईशे ॥nṛṇām | oṃ iti | tvā | nṛ-tamam | gīḥ-bhiḥ | ukthaiḥ | abhi | pra | vīram | arcata | sa-bādhaḥ | sam | sahase | puru-māyaḥ | jihīte | namaḥ | asya | pra-divaḥ | ekaḥ | īśe