Sukta 3.51
आकरे वसोर्जरिता पनस्यतेऽनेहसः स्तुभ इन्द्रो दुवस्यति । विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥
आ॒क॒रे वसो॑र्जरि॒ता प॑नस्यतेऽने॒हस॒: स्तुभ॒ इन्द्रो॑ दुवस्यति । वि॒वस्व॑त॒: सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं॑ स्तुहि ॥
ākare vasoḥ jaritā panasyate’nehasaḥ stubha índro duvasyati | vivásvataḥ sádana ā hí pipriyé satrā́sāham abhimāti-hánaṃ stuhi ||
At the wellspring of plenitude the singer seeks the delight of the Wealth (of being); the praiser, free from haste, serves Indra with reverence. For in the seat of Vivasvat he has grown full; praise the ever-victorious, the slayer of hostile thoughts.
आ॒ऽक॒रे । वसोः॑ । ज॒रि॒ता । प॒न॒स्य॒ते॒ । अ॒ने॒हसः॑ । स्तुभः॑ । इन्द्रः॑ । दु॒व॒स्य॒ति॒ । वि॒वस्व॑तः । सद॑ने । आ । हि । पि॒प्रि॒ये । स॒त्रा॒ऽसह॑म् । अ॒भि॒मा॒ति॒ऽहन॑म् । स्तु॒हि॒ ॥आकरे । वसोः । जरिता । पनस्यते । अनेहसः । स्तुभः । इन्द्रः । दुवस्यति । विवस्वतः । सदने । आ । हि । पिप्रिये । सत्रासहम् । अभिमातिहनम् । स्तुहि ॥ākare | vasoḥ | jaritā | panasyate | anehasaḥ | stubhaḥ | indraḥ | duvasyat i | vivasvataḥ | sadane | ā | hi | pipriye | satrāsaham | abhimāti-hanam | stuhi