Sukta 3.51
शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः । वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥
श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो॑ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वत॑: । वा॒ज॒सनिं॑ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं॑ धाम॒साच॑मभि॒षाचं॑ स्व॒र्विद॑म् ॥
śatákra tum arṇaváṃ śā́kinaṃ náram gíro ma índram úpa yanti viśvátāḥ | vājásaniṃ pūrbhídaṃ tū́rṇim aptúraṃ dhā́masācam abhiṣā́caṃ svárvidam ||
My hymns go to Indra from every side—of a hundred powers, an ocean of force, the capable hero. Winner of plenitude, breaker of the strongholds, swift and accomplishing the works, companion of the true seats, overpowering the adversary, finder of the Sun-world.
श॒तऽक्र॑तुम् । अ॒र्ण॒वम् । शा॒किन॑म् । नर॑म् । गिरः॑ । मे॒ । इन्द्र॑म् । उप॑ । य॒न्ति॒ । वि॒श्वतः॑ । वा॒ज॒ऽसनि॑म् । पूः॒ऽभिद॑म् । तूर्णि॑म् । अ॒प्ऽतुर॑म् । धा॒म॒ऽसाच॑म् । अ॒भि॒ऽसाच॑म् । स्वः॒ऽविद॑म् ॥शतक्रतुम् । अर्णवम् । शाकिनम् । नरम् । गिरः । मे । इन्द्रम् । उप । यन्ति । विश्वतः । वाजसनिम् । पूःभिदम् । तूर्णिम् । अप्तुरम् । धामसाचम् । अभिसाचम् । स्वःविदम् ॥śata-kratum | arṇavam | śākinam | naram | giraḥ | me | indram | upa | yanti | viśvataḥ | vāja-sanim | pūḥ-bhidam | tūrṇim | ap-turam | dhāma-sācam | abhi-ṣācam | svaḥ-vidam