Sukta 3.51
चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत । वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥
च॒र्ष॒णी॒धृतं॑ म॒घवा॑नमु॒क्थ्य१॒॑मिन्द्रं॒ गिरो॑ बृह॒तीर॒भ्य॑नूषत । वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ॥
carṣaṇīdhṛ́taṃ maghavā́nam ukthyàm índraṃ gíro bṛhatī́r abhyànūṣata | vāvṛdhānám puruhūtáṃ suvṛ́ktibhir ámartyaṃ jarámāṇaṃ divédive ||
The great hymns have sounded forth to Indra, the bounteous, upheld by the peoples, worthy of the chant. Growing ever more, much-invoked, with well-shaped words—immortal—he is praised day by day as the enduring power in our progression.
च॒र्ष॒णि॒ऽधृत॑म् । म॒घऽवा॑नम् । उ॒क्थ्य॑म् । इन्द्र॑म् । गिरः॑ । बृ॒ह॒तीः । अ॒भि । अ॒नू॒ष॒त॒ । व॒वृ॒ध॒नम् । पु॒रु॒ऽहू॒तम् । सु॒वृ॒क्तिऽभिः॑ । अम॑र्त्यम् । जर॑माणम् । दि॒वेऽदि॑वे ॥चर्षणिधृतम् । मघवानम् । उक्थ्यम् । इन्द्रम् । गिरः । बृहतीः । अभि । अनूषत । ववृधनम् । पुरुहूतम् । सुवृक्तिभिः । अमर्त्यम् । जरमाणम् । दिवेदिवे ॥carṣaṇi-dhṛtam | magha-vānam | ukthyam | indram | giraḥ | bṛhatīḥ | abhi | anūṣata | vavṛdhanam | puru-hūtam | suvṛkti-bhiḥ | amartyam | jaramāṇam | dive--dive