Sukta 3.50
इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च । स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
इ॒मं कामं॑ मन्दया॒ गोभि॒रश्वै॑श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च । स्व॒र्यवो॑ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा॑य॒ वाह॑: कुशि॒कासो॑ अक्रन् ॥
imáṃ kā́maṃ mandaya góbhir áśvaiś candrávatā rā́dhasā papráthaś ca | svaryávo matíbhis túbhyaṃ víprā índrāya vā́haḥ kuśikā́so akran ||
Gladden this aim of ours with rays and steeds, and with luminous abundance expand it. Seeking the Sun-world, the inspired seers, with their thoughts, have fashioned for you the vehicle—Kuśikas have made the carrying-force for Indra.
इ॒मम् । काम॑म् । म॒न्द॒य॒ । गोभिः॑ । अश्वैः॑ । च॒न्द्रऽव॑ता । राध॑सा । प॒प्रथः॑ । च॒ । स्वः॒ऽयवः॑ । म॒तिऽभिः॑ । तुभ्य॑म् । विप्राः॑ । इन्द्रा॑य । वाहः॑ । कु॒शि॒कासः॑ । अ॒क्र॒न् ॥इमम् । कामम् । मन्दय । गोभिः । अश्वैः । चन्द्रवता । राधसा । पप्रथः । च । स्वःयवः । मतिभिः । तुभ्यम् । विप्राः । इन्द्राय । वाहः । कुशिकासः । अक्रन् ॥imam | kāmam | mandaya | gobhiḥ | aśvaiḥ | candra-vatā | rādhasā | paprathaḥ | ca | svaḥ-yavaḥ | mati-bhiḥ | tubhyam | viprāḥ | indrāya | vāhaḥ | kuśikāsaḥ | akran