Sukta 3.50
आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः । इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥
आ ते॑ सप॒र्यू ज॒वसे॑ युनज्मि॒ ययो॒रनु॑ प्र॒दिव॑: श्रु॒ष्टिमाव॑: । इ॒ह त्वा॑ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॑: ॥
ā́ te saparyū́ jávase yunajmi yáyor ánu pradívaḥ śruṣṭím ā́vaḥ | ihá tvā dheyúr hárayaḥ suśipra pibā́ tv asyá suṣútasya cā́roḥ ||
To you I yoke the two serving powers for speed—those by which you bring the obedience from the far heaven. Here may the tawny steeds set you in place, O fair-lipped one; drink indeed of this well-pressed, delightful Soma.
आ । ते॒ । स॒प॒र्यू इति॑ । ज॒वसे॑ । यु॒न॒ज्मि॒ । ययोः॑ । अनु॑ । प्र॒ऽदिवः॑ । श्रु॒ष्टिम् । आवः॑ । इ॒ह । त्वा॒ । धे॒युः॒ । हर॑यः । सु॒ऽशि॒प्र॒ । पिब॑ । तु । अ॒स्य । सुऽसु॑तस्य । चारोः॑ ॥आ । ते । सपर्यू इति । जवसे । युनज्मि । ययोः । अनु । प्रदिवः । श्रुष्टिम् । आवः । इह । त्वा । धेयुः । हरयः । सुशिप्र । पिब । तु । अस्य । सुसुतस्य । चारोः ॥ā | te | saparyū iti | javase | yunajmi | yayoḥ | anu | pra-divaḥ | śruṣṭim | āvaḥ | iha | tvā | dheyuḥ | harayaḥ | su-śipra | piba | tu | asya | su-sutasya | cāroḥ