Sukta 3.49
धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् । क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥
ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् । क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे॑व॒ वाज॑म् ॥
dhartā́ divó rájasas pṛṣṭá ūrdhvó rathó ná vāyúrvásubhir niyútvān | kṣapā́m vastā́ janitā́ sū́ryasya víbhaktā bhāgáṃ dhiṣáṇeva vā́jam ||
He is the upholder of heaven, set upon the back of the mid-world; rising upward like a chariot, like Vāyu yoked with the Vasus. He is the weaver of the nights and the begetter of the Sun; he apportions the share, and like Dhīṣaṇā he distributes the plenitude of force (vāja) for our becoming.
ध॒र्ता । दि॒वः । रज॑सः । पृ॒ष्टः । ऊ॒र्ध्वः । रथः॑ । न । वा॒युः । वसु॑ऽभिः । नि॒युत्वा॑न् । क्ष॒पाम् । व॒स्ता । ज॒नि॒ता । सूर्य॑स्य । विऽभ॑क्ता । भा॒गम् । धि॒षणा॑ऽइव । वाज॑म् ॥धर्ता । दिवः । रजसः । पृष्टः । ऊर्ध्वः । रथः । न । वायुः । वसुभिः । नियुत्वान् । क्षपाम् । वस्ता । जनिता । सूर्यस्य । विभक्ता । भागम् । धिषणाइव । वाजम् ॥dhartā | divaḥ | rajasaḥ | pṛṣṭaḥ | ūrdhvaḥ | rathaḥ | na | vāyuḥ | vasu-bhiḥ | niyutvān | kṣapām | vastā | janitā | sūryasya | vi-bhaktā | bhāgam | dhiṣaṇāiva | vājam