Sukta 3.49
सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् । भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥
स॒हावा॑ पृ॒त्सु त॒रणि॒र्नार्वा॑ व्यान॒शी रोद॑सी मे॒हना॑वान् । भगो॒ न का॒रे हव्यो॑ मती॒नां पि॒तेव॒ चारु॑: सु॒हवो॑ वयो॒धाः ॥
sahā́vā pṛtsú taraṇír nā́rvā vyānaśī́ rodasī́ mehanā́vān | bhágo ná kāré havyo matīnā́m pitā́iva cā́ruḥ suhávo vayaḥdhā́ḥ ||
Strong in the clash of inner battles, he is the crosser like a swift steed; he widens the two worlds (the inner and the outer) and is a mighty pourer of the fruitful waters. Like Bhaga in the act of giving, he is to be invoked by our inspired thoughts; like a father, he is beautiful and easy to call, establishing in us the breadth of life-force.
स॒हऽवा॑ । पृ॒त्ऽसु । त॒रणिः॑ । न । अर्वा॑ । वि॒ऽआ॒न॒शी॒ इति॑ । रोद॑सी॒ इति॑ । मे॒हना॑ऽवान् । भगः॑ । न । का॒रे । हव्यः॑ । म॒ती॒नाम् । पि॒ताऽइ॑व । चारुः॑ । सु॒ऽहवः॑ । व॒यः॒ऽधाः ॥सहवा । पृत्सु । तरणिः । न । अर्वा । विआनशी इति । रोदसी इति । मेहनावान् । भगः । न । कारे । हव्यः । मतीनाम् । पिताइव । चारुः । सुहवः । वयःधाः ॥saha-vā | pṛt-su | taraṇiḥ | na | arvā | vi-ānaśī iti | rodasī iti | mehanāvān | bhagaḥ | na | kāre | havyaḥ | matīnām | pitāiva | cāruḥ | su-havaḥ | vayaḥ-dhāḥ