Sukta 3.49
यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् । इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥
यं नु नकि॒: पृत॑नासु स्व॒राजं॑ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् । इ॒नत॑म॒: सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया॑ अमिना॒दायु॒र्दस्यो॑: ॥
yáṃ nu nákiḥ pṛ́tanāsu svārā́jaṃ dvitā́ tárati nṛ́tamaṃ haríṣṭhām | inátamaḥ sátvabhir yó ha śū́ṣaiḥ pṛthujráyā aminā́d ā́yur dásyoḥ ||
Whom none surpasses in the battles, the self-ruling, the best of men, seated on the tawny steeds; most driving with his powers, who with his impetuous strengths and broad onset diminished the life of the Dasyu (the dark adversary).
यम् । नु । नकिः॑ । पृत॑नासु । स्व॒ऽराज॑म् । द्वि॒ता । तर॑ति । नृऽत॑मम् । ह॒रि॒ऽस्थाम् । इ॒नऽत॑मः । सत्व॑ऽभिः । यः । ह॒ । शू॒षैः । पृ॒थु॒ऽज्रयाः॑ । अ॒मि॒ना॒त् । आयुः॑ । दस्योः॑ ॥यम् । नु । नकिः । पृतनासु । स्वराजम् । द्विता । तरति । नृतमम् । हरिस्थाम् । इनतमः । सत्वभिः । यः । ह । शूषैः । पृथुज्रयाः । अमिनात् । आयुः । दस्योः ॥yam | nu | nakiḥ | pṛtanāsu | sva-rājam | dvitā | tarati | nṛ-tamam | hari-sthām | ina-tamaḥ | satva-bhiḥ | yaḥ | ha | śūṣaiḥ | pṛthu-jrayāḥ | amināt | āyuḥ | dasyoḥ