Sukta 3.49
शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् । यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥
शंसा॑ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टय॑: सोम॒पाः काम॒मव्य॑न् । यं सु॒क्रतुं॑ धि॒षणे॑ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां॑ ज॒नय॑न्त दे॒वाः ॥
śaṃsā́ mahā́m índraṃ yásmin víśvā ā́ kṛ́ṣṭayaḥ somapā́ḥ kā́mam ávyan | yáṃ sukrátuṃ dhiṣáṇe vibhvatáṣṭaṃ ghnáṃ vṛtrā́ṇāṃ janáyanta devā́ḥ ||
I proclaim the great Indra in whom all the peoples who drink Soma have woven their desire; him, the strong-willed, fashioned in the two Inspirations, the smiter of obstructions—the gods brought him to birth.
शंसा॑ । म॒हाम् । इन्द्र॑म् । यस्मि॑न् । विश्वाः॑ । आ । कृ॒ष्टयः॑ । सो॒म॒ऽपाः । काम॑म् । अव्य॑न् । यम् । सु॒ऽक्रतु॑म् । धि॒षणे॑ । वि॒भ्व॒ऽत॒ष्टम् । घ॒नम् । वृ॒त्राणा॑म् । ज॒नय॑न्त । दे॒वाः ॥शंसा । महाम् । इन्द्रम् । यस्मिन् । विश्वाः । आ । कृष्टयः । सोमपाः । कामम् । अव्यन् । यम् । सुक्रतुम् । धिषणे । विभ्वतष्टम् । घनम् । वृत्राणाम् । जनयन्त । देवाः ॥śaṃsā | mahām | indram | yasmin | viśvāḥ | ā | kṛṣṭayaḥ | soma-pāḥ | kāmam | avyan | yam | su-kratum | dhiṣaṇe | vibhva-taṣṭam | ghanam | vṛtrāṇām | janayanta | devāḥ