Sukta 3.47
उत ऋतुभिॠतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः । याँ आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥
उ॒त ऋ॒तुभि॑ॠतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभि॒: सखि॑भिः सु॒तं न॑: । याँ आभ॑जो म॒रुतो॒ ये त्वान्वह॑न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोज॑: ॥
utá ṛtúbhiḥ ṛtupāḥ pāhi sómam índra devébhīḥ sákhībhiḥ sutáṃ naḥ | yā́n ā́ abhajaḥ marúto yé tvā́ ánu áhan vṛtrám ádadhuḥ túbhyam ójaḥ ||
And with the seasons—O guardian of the right times—protect our pressed Soma, O Indra, together with the god-powers who are thy friends; those Maruts whom thou didst apportion to thyself, who followed thee and smote Vṛtra, they set in thee the force of victory.
उ॒त । ऋ॒तुऽभिः॑ । ऋ॒तु॒ऽपाः । पा॒हि॒ । सोम॑म् । इन्द्र॑ । दे॒वेभिः॑ । सखि॑ऽभिः । सु॒तम् । नः॒ । यान् । आ । अभ॑जः । म॒रुतः॑ । ये । त्वा । अनु॑ । अह॑न् । वृ॒त्रम् । अद॑धुः । तुभ्य॑म् । ओजः॑ ॥उत । ऋतुभिः । ऋतुपाः । पाहि । सोमम् । इन्द्र । देवेभिः । सखिभिः । सुतम् । नः । यान् । आ । अभजः । मरुतः । ये । त्वा । अनु । अहन् । वृत्रम् । अदधुः । तुभ्यम् । ओजः ॥uta | ṛtu-bhiḥ | ṛtu-pāḥ | pāhi | somam | indra | devebhiḥ | sakhi-bhiḥ | sutam | naḥ | yān | ā | abhajaḥ | marutaḥ | ye | tvā | anu | ahan | vṛtram | adadhuḥ | tubhyam | ojaḥ