Sukta 3.47
सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् । जहि शत्रूँरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भि॒: सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् । ज॒हि शत्रूँ॒रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ॥
sa-jóṣā indra sá-gaṇo marúdbhiḥ sómaṁ piba vṛtra-hā śūra vidvā́n | jáhi śatrū́m̐r ápa mṛ́dho nudasvā́thā́bhayaṁ kṛṇuhi viśvátó naḥ ||
In one delight with the Maruts, in one company, drink the Soma, O slayer of Vṛtra, O hero who knows. Smite the enemies, drive away the assaults; then make for us fearlessness from every side.
स॒ऽजोषाः॑ । इ॒न्द्र॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् । ज॒हि । शत्रू॑न् । अप॑ । मृधः॑ । नु॒द॒स्व॒ । अथ॑ । अभ॑यम् । कृ॒णु॒हि॒ । वि॒श्वतः॑ । नः॒ ॥सजोषाः । इन्द्र । सगणः । मरुत्भिः । सोमम् । पिब । वृत्रहा । शूर । विद्वान् । जहि । शत्रून् । अप । मृधः । नुदस्व । अथ । अभयम् । कृणुहि । विश्वतः । नः ॥sa-joṣāḥ | indra | sa-gaṇaḥ | marut-bhiḥ | somam | piba | vṛtra-hā | śūra | vidvān | jahi | śatrūn | apa | mṛdhaḥ | nudasva | atha | abhayam | kṛṇuhi | viśvataḥ | naḥ