Sukta 3.47
ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ । ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥
ये त्वा॑हि॒हत्ये॑ मघव॒न्नव॑र्ध॒न्ये शा॑म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ । ये त्वा॑ नू॒नम॑नु॒मद॑न्ति॒ विप्रा॒: पिबे॑न्द्र॒ सोमं॒ सग॑णो म॒रुद्भि॑: ॥
yé tvā́ ahihátye maghavan ávardhan yé śā́mbare harivo yé gáviṣṭau | yé tvā́ nū́nám anumádanti víprāḥ píbéndra sómaṃ ságaṇo marúdbhīḥ ||
They who increased thee, O bountiful one, in the slaying of the Serpent, they in the Shambara battle, O lord of the tawny steeds, they in the seeking of the Light-cows; they who now acclaim thee, the seers—drink, O Indra, the Soma together with the host of the Maruts.
ये । त्वा॒ । अ॒हि॒ऽहत्ये॑ । म॒घ॒ऽव॒न् । अव॑र्धन् । ये । शा॒म्ब॒रे । ह॒रि॒वः॒ । ये । गोऽइ॑ष्टौ । ये । त्वा॒ । न्न॒म् । अ॒नु॒ऽमद॑न्ति । विप्राः॑ । पिब॑ । इ॒न्द्र॒ । सोम॑म् । सऽग॑णः । म॒रुत्ऽभिः॑ ॥ये । त्वा । अहिहत्ये । मघवन् । अवर्धन् । ये । शाम्बरे । हरिवः । ये । गोइष्टौ । ये । त्वा । न्नम् । अनुमदन्ति । विप्राः । पिब । इन्द्र । सोमम् । सगणः । मरुत्भिः ॥ye | tvā | ahi-hatye | magha-van | avardhan | ye | śāmbare | harivaḥ | ye | go--iṣṭau | ye | tvā | nnam | anu-madantiḥviprāḥḥpibaḥindraḥsomamḥsa-gaṇaḥḥmarut-bhiḥ