Sukta 3.42
तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये । एष रारन्तु ते हृदि ॥
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑ । ए॒ष रा॑रन्तु ते हृ॒दि ॥
túbhyéd indra svá okyè sómaṁ codāmi pītáye | eṣá rārantu te hṛdí ||
For thee alone, O Indra, in thine own home of the being, I impel this Soma for thy drinking. Let this delight take joy and settle in thy heart—so thy power may act from within us.
तुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ । ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥तुभ्य । इत् । इन्द्र । स्वे । ओक्ये । सोमम् । चोदामि । पीतये । एषः । ररन्तु । ते । हृदि ॥tubhya | it | indra | sve | okye | somam | codāmi | pītaye | eṣaḥ | rarantu | te | hṛdi