Sukta 3.42
इममिन्द्र गवाशिरं यवाशिरं च नः पिब । आगत्या वृषभिः सुतम् ॥
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब । आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
imám indra gávāśiraṁ yávāśiraṁ ca naḥ piba | āgátyā vṛ́ṣabhíḥ sutám ||
Drink for us, O Indra, this Soma mixed with the cow’s light and with the barley’s sustaining force; come with thy mighty energies and take the pressed delight into thy power.
इ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ । आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥इमम् । इन्द्र । गोआशिरम् । यवआशिरम् । च । नः । पिब । आगत्य । वृषभिः । सुतम् ॥imam | indra | go--āśiram | yava-āśiram | ca | naḥ | piba | āgatya | vṛṣa-bhiḥ | sutam