Sukta 3.42
तमिन्द्र मदमा गहि बर्हिःष्ठां ग्रावभिः सुतम् । कुविन्न्वस्य तृप्णवः ॥
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒:ष्ठां ग्राव॑भिः सु॒तम् । कु॒विन्न्व॑स्य तृ॒प्णव॑: ॥
tám índra mádam ā́ gahi bárhiṣṭhāṃ grā́vabhiḥ sutám | kúvin nv asyá tṛṣṇávaḥ ||
Come, O Indra, to that ecstasy; to the Soma pressed by the stones, set upon the barhis-seat. Will not your thirst be satisfied by it—will not the seeking in you find its fulfillment here?
तम् । इ॒न्द्र॒ । मद॒म् । आ । ग॑हि ब॒र्हिः॒ऽस्थाम् । ग्राव॑ऽभिः । सु॒तम् । कु॒वित् । नु । अ॒स्य॒ । तृ॒ष्णवः॑ ॥तम् । इन्द्र । मदम् । आ । गहि बर्हिःस्थाम् । ग्रावभिः । सुतम् । कुवित् । नु । अस्य । तृष्णवः ॥tam | indra | madam | ā | gahi barhiḥ-sthām | grāva-bhiḥ | sutam | kuvit | nu | asya | tṛṣṇavaḥ