Sukta 3.41
सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् । अयुज्रन्प्रातरद्रयः ॥
स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक् । अयु॑ज्रन्प्रा॒तरद्र॑यः ॥
sattó hótā na ṛtvíyas tistiré bárhir ānuṣák | áyujran prā́tar ádrayaḥ ||
Our seasonal priest is seated, the Hotar of the right times; the sacred grass is spread in due succession. At dawn the pressing-stones were yoked—discipline harnessed the instruments that draw out the delight for the divine work.
स॒त्तः । होता॑ । नः॒ । ऋ॒त्वियः॑ । ति॒स्ति॒रे । ब॒र्हिः । आ॒नु॒षक् । अयु॑ज्रन् । प्रा॒तः । अद्र॑यः ॥सत्तः । होता । नः । ऋत्वियः । तिस्तिरे । बर्हिः । आनुषक् । अयुज्रन् । प्रातः । अद्रयः ॥sattaḥ | hotā | naḥ | ṛtviyaḥ | tistire | barhiḥ | ānuṣak | ayujran | prātaḥ | adrayaḥ