Sukta 3.41
आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये । हरिभ्यां याह्यद्रिवः ॥
आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये । हरि॑भ्यां याह्यद्रिवः ॥
ā́ tū na indra madryàg huvānáḥ sóma-pītaye | háribhyāṃ yāhy adri-vaḥ ||
Come now to us, O Indra, turning thy joy hither at our call for the drinking of Soma; come with thy two luminous steeds, O wielder of the stone—bring the swift powers that bear the delight into the being.
आ । तु । नः॒ । इ॒न्द्र॒ । म॒द्र्य॑क् । हु॒वा॒नः । सोम॑ऽपीतये । हरि॑ऽभ्याम् । या॒हि॒ । अ॒द्रि॒ऽवः॒ ॥आ । तु । नः । इन्द्र । मद्र्यक् । हुवानः । सोमपीतये । हरिभ्याम् । याहि । अद्रिवः ॥ā | tu | naḥ | indra | madryak | huvānaḥ | soma-pītaye | hari-bhyām | yāhi | adri-vaḥ