Sukta 3.40
अर्वावतो न आ गहि परावतश्च वृत्रहन् । इमा जुषस्व नो गिरः ॥
अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् । इ॒मा जु॑षस्व नो॒ गिर॑: ॥
arvā́vato na ā́ gahi parā́vataś ca vṛtrahan | imā́ juṣasva no gíraḥ ||
Come to us from the nearer and from the farther reaches, O slayer of obstruction; accept these our inspired words—so the force that breaks the darkness may be present in the whole field of our being.
अ॒र्वा॒ऽवतः॑ । नः॒ । आ । ग॒हि॒ । प॒रा॒ऽवतः॑ । च॒ । वृ॒त्र॒ह॒न् । इ॒माः । जु॒ष॒स्व॒ । नः॒ । गिरः॑ ॥अर्वावतः । नः । आ । गहि । परावतः । च । वृत्रहन् । इमाः । जुषस्व । नः । गिरः ॥arvāvataḥ | naḥ | ā | gahi | parāvataḥ | ca | vṛtrahan | imāḥ | juṣasva | naḥ | giraḥ