Sukta 3.40
अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता । पीत्वी सोमस्य वावृधे ॥
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता । पी॒त्वी सोम॑स्य वावृधे ॥
abhí dyumnā́ni vanína índraṃ sacante ákṣitā | pītvī́ sómasya vāvṛdhe ||
Around Indra gather the unexhausted powers that win luminous plenitudes; having drunk of Soma, he increases—growing into a greater amplitude of victorious light.
अ॒भि । द्यु॒म्नानि॑ । व॒निनः॑ । इन्द्र॑म् । स॒च॒न्ते॒ । अक्षि॑ता । पी॒त्वी । सोम॑स्य । व॒वृ॒धे॒ ॥अभि । द्युम्नानि । वनिनः । इन्द्रम् । सचन्ते । अक्षिता । पीत्वी । सोमस्य । ववृधे ॥abhi | dyumnāni | vaninaḥ | indram | sacante | akṣitā | pītvī | somasya | vavṛdhe