Sukta 3.40
गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥
गिर्व॑णः पा॒हि न॑: सु॒तं मधो॒र्धारा॑भिरज्यसे । इन्द्र॒ त्वादा॑त॒मिद्यश॑: ॥
gírvāṇaḥ pā́hi naḥ sutáṃ mádhor dhā́rābhir ajyase | índra tvādā́tam íd yáśaḥ ||
O Indra who rejoices in the word, guard for us this pressed Soma; thou art anointed with streams of sweetness. The glory is indeed given by thee—thy gift of victorious renown within the soul.
गिर्व॑णः । पा॒हि । नः॒ । सु॒तम् । मधोः॑ । धारा॑भिः । अ॒ज्य॒से॒ । इन्द्र॑ । त्वाऽदा॑तम् । इत् । यशः॑ ॥गिर्वणः । पाहि । नः । सुतम् । मधोः । धाराभिः । अज्यसे । इन्द्र । त्वादातम् । इत् । यशः ॥girvaṇaḥ | pāhi | naḥ | sutam | madhoḥ | dhārābhiḥ | ajyase | indra | tvādātam | it | yaśaḥ