Sukta 3.4
आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः । सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥
ā bhā́ratī bhā́ratībhiḥ sajóṣā iḷā́ deváir manuṣyébhir agníḥ | sárasvatī sārasvatébhiḥ arvā́k tisró devī́r bárhir idáṃ sádantu ||
Let Bhāratī come here with the Bharatis in one harmony; let Iḷā come with the gods and with men through Agni. Let Sarasvatī come near with the Sarasvatas; may these three goddesses sit upon this sacred seat (barhis) within us.
आ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळाः॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः । सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥आ । भारती । भारतीभिः । सजोषाः । इळाः । देवैः । मनुष्येभिः । अग्निः । सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥ā | bhāratī | bhāratībhiḥ | sa-joṣāḥ | iḷāḥ | devaiḥ | manuṣyebhiḥ | agniḥ | sarasvatī | sārasvatebhiḥ | arvāk | tisraḥ | devīḥ | barhiḥ | ā | idam | sadantu