Sukta 3.4
दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति । ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
दैव्या॒ होता॑रा प्रथ॒मा न्यृ॑ञ्जे स॒प्त पृ॒क्षास॑: स्व॒धया॑ मदन्ति । ऋ॒तं शंस॑न्त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥
daivyā́ hótārā prathamā́ ny ṛ́ñje saptá pṛkṣā́saḥ svadháyā madanti | ṛtáṃ śáṃsanta ṛtám ít tá āhuḥ ánu vratáṃ vrata-pā́ dīdhyā́nāḥ ||
The divine Hotṛ-priests, the first, take their seats; the seven strong ones rejoice in their own law of being. Proclaiming ṛta, they speak ṛta indeed; guarding the ordinances, they blaze in aspiration, following the vow.
दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ । ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति । ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रतपाः । दीध्यानाः ॥daivyā | hotārā | prathamā | ni | ṛñje | sapta | pṛkṣāsaḥ | svadhayā | madanti | ṛtam | śaṃsantaḥ | ṛtam | it | te | āhuḥ | anu | vratam | vrata-pāḥ | dīdhyānāḥ