Sukta 3.4
आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे । यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वाँ उत वा महोभिः ॥
आ भन्द॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे । यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिन्द्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥
ā́ bhandamāne uṣásā upā́ke utá smayete tanvā́ virū́pe | yáthā no mitró váruṇo jújoṣad índro marútvāṃ utá vā máho-bhiḥ ||
As the two Dawns draw near, smiling in their differing forms, may Mitra and Varuṇa take delight in us; and Indra with the Maruts too, by their great powers.
आ । भन्द॑माने॒ इति॑ । उ॒षसौ॑ । उपा॑के॒ इति॑ । उ॒त । स्म॒ये॒ते॒ इति॑ । त॒न्वा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । जुजो॑षत् । इन्द्रः॑ । म॒रुत्वा॑न् । उ॒त । वा॒ । महः॑ऽभिः ॥आ । भन्दमाने इति । उषसौ । उपाके इति । उत । स्मयेते इति । तन्वा । विरूपे इति विरूपे । यथा । नः । मित्रः । वरुणः । जुजोषत् । इन्द्रः । मरुत्वान् । उत । वा । महःभिः ॥ā | bhandamāneiti | uṣasau | upāke iti | uta | smayeteiti | tanvā | virūpeitivi-rūpe | yathā | naḥ | mitraḥ | varuṇaḥ | jujoṣat | indraḥ | marutvān | uta | vā | mahaḥ-bhiḥ