Sukta 3.4
सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन । नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥
स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व॑न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ । नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ॥
saptá hotrā́ṇi mánasā vṛṇānā́ invánto víśvaṃ práti yánn ṛténa | nṛ-péśaso vidáthēṣu prá jātā́ abhī́mám yajñáṃ ví caranta pūrvī́ḥ ||
The seven priestly powers, choosing by the mind, impel all towards the Truth as they go by ṛta. Shaping the human being, born in the assemblies, they move in manifold ways around this sacrifice.
स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ । नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥सप्त । होत्राणि । मनसा । वृणानाः । इन्वन्तः । विश्वम् । प्रति । यन् । ऋतेन । नृपेशसः । विदथेषु । प्र । जाताः । अभि । इमम् । यज्ञम् । वि । चरन्त । पूर्वीः ॥sapta | hotrāṇi | manasā | vṛṇānāḥ | invantaḥ | viśvam | prati | yan | ṛtena | nṛ-peśasaḥ | vidatheṣu | pra | jātāḥ | abhi | imam | yajñam | vi | caranta | pūrvīḥ