Sukta 3.4
यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः । सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥
यं दे॒वास॒स्त्रिरह॑न्ना॒यज॑न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः । सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धन्त॑म् ॥
yáṃ devā́sás trír áhan ā́-yájante dive-dive váruṇo mitró agníḥ | sémáṃ yajñáṃ mádhu-mantaṃ kṛdhī nas tanū-napād ghṛtá-yonim vidhántam ||
He whom the gods worship thrice a day—Varuṇa, Mitra, and Agni—make this our sacrifice full of sweetness; O Tanūnapāt, establish it, a rite with the womb of ghee, well-ordered in its workings.
यम् । दे॒वासः॑ । त्रिः । अह॑न् । आ॒ऽयज॑न्ते । दि॒वेऽदि॑वे । वरु॑णः । मि॒त्रः । अ॒ग्निः । सः । इ॒मम् । य॒ज्ञम् । मधु॑ऽमन्तम् । कृ॒धि॒ । नः॒ । तनू॑ऽनपात् । घृ॒तऽयो॑निम् । वि॒धन्त॑म् ॥यम् । देवासः । त्रिः । अहन् । आयजन्ते । दिवेदिवे । वरुणः । मित्रः । अग्निः । सः । इमम् । यज्ञम् । मधुमन्तम् । कृधि । नः । तनूनपात् । घृतयोनिम् । विधन्तम् ॥yam | devāsaḥ | triḥ | ahan | āyajante | dive--dive | varuṇaḥ | mitraḥ | agniḥ | saḥ | imam | yajñam | madhu-mantam | kṛdhi | naḥ | tanū-napāt | ghṛta-yonim | vidhantam