Sukta 3.4
प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै । अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥
प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै । अच्छा॒ नमो॑भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥
prá dī́dhitir viśvá-vārā jigāti hótāram iḷáḥ prathamáṃ yájadhyai | ácchā námo-bhir vṛṣabháṃ vandádhyai sá devā́ny ákṣad iṣitó yajī́yān ||
Forward goes the radiant inspiration, rich in all boons, to the first of priests, to worship. With obeisances it seeks to praise the Bull; he, impelled and most worthy of sacrifice, has offered to the gods.
प्र । दीधि॑तिः । वि॒श्वऽवा॑रा । जि॒गा॒ति॒ । होता॑रम् । इ॒ळः । प्र॒थ॒मम् । यज॑ध्यै । अच्छ॑ । नमः॑ऽभिः । वृ॒ष॒भम् । व॒न्दध्यै॑ । सः । दे॒वान् । य॒क्ष॒त् । इ॒षि॒तः । यजी॑यान् ॥प्र । दीधितिः । विश्ववारा । जिगाति । होतारम् । इळः । प्रथमम् । यजध्यै । अच्छ । नमःभिः । वृषभम् । वन्दध्यै । सः । देवान् । यक्षत् । इषितः । यजीयान् ॥pra | dīdhitiḥ | viśva-vārā | jigāti | hotāram | iḷaḥ | prathamam | yajadhyai | accha | namaḥ-bhiḥ | vṛṣabham | vandadhyai | saḥ | devān | yakṣat | iṣitaḥ | yajīyān