Sukta 3.37
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ॥
इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ । इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥
indriyā́ṇi śatakrato yā́ te jáneṣu páñcasu | índra tā́ni ta ā́ vṛṇe ||
The Indra-powers, O hundred-willed, that are thine among the five peoples—those very powers, O Indra, I choose and draw toward me for the soul’s increase.
इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ । इन्द्र॑ । तानि॑ । ते॒ । आ । वृ॒णे॒ ॥इन्द्रियाणि । शतक्रतो इति शतक्रतो । या । ते । जनेषु । पञ्चसु । इन्द्र । तानि । ते । आ । वृणे ॥indriyāṇi | śatakrato itiśata-krato | yā | te | janeṣu | pañca-su | indra | tāni | te | ā | vṛṇe