Sukta 3.37
शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् । इन्द्र सोमं शतक्रतो ॥
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम् । इन्द्र॒ सोमं॑ शतक्रतो ॥
śuṣmíntamaṃ na ūtáye dyumnínaṃ pāhi jā́gṛvim | índra sómaṃ śatakrato ||
Guard for our help the most forceful, the radiant, the wakeful Soma—O Indra of a hundred powers—so that the awakened delight may be preserved for the soul’s journey.
शु॒ष्मिन्ऽत॑मम् । न । ऊ॒तये॑ । द्यु॒म्निन॑म् । पा॒हि॒ । जागृ॑विम् । इन्द्र॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥शुष्मिन्तमम् । न । ऊतये । द्युम्निनम् । पाहि । जागृविम् । इन्द्र । सोमम् । शतक्रतो इति शतक्रतो ॥śuṣmin-tamam | na | ūtaye | dyumninam | pāhi | jāgṛvim | indra | somam | śatakrato itiśata-krato