Sukta 3.37
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च । इन्द्र साक्ष्वाभिमातिषु ॥
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रव॑स्सु च । इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥
dyumnéṣu pṛtanā́jye pṛtsutū́rṣu śrávaḥsu ca | índra sā́kṣvābhímātiṣu ||
In our luminous achievements, in the battle-impulses, in the conflicts that must be overpassed, and in the fields of inspired fame—O Indra, be present and victorious against the assailing hostile forces.
द्यु॒म्नेषु॑ । पृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु॑ । श्रवः॑ऽसु । च॒ । इन्द्र॑ । साक्ष्व॑ । अ॒भिऽमा॑तिषु ॥द्युम्नेषु । पृतनाज्ये । पृत्सुतूर्षु । श्रवःसु । च । इन्द्र । साक्ष्व । अभिमातिषु ॥dyumneṣu | pṛtanājye | pṛtsutūrṣu | śravaḥ-su | ca | indra | sākṣva | abhi-mātiṣu