Sukta 3.37
पुरुष्टुतस्य धामभिः शतेन महयामसि । इन्द्रस्य चर्षणीधृतः ॥
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि । इन्द्र॑स्य चर्षणी॒धृत॑: ॥
puruṣṭutásya dhā́mabhiḥ śaténa mahayāmasi | índrasya carṣaṇīdhṛ́taḥ ||
By a hundred luminous stations of power we magnify the much-praised Indra, the supporter of the human clans—he who upholds our field of action and growth.
पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभिः । श॒तेन॑ । म॒ह॒या॒म॒सि॒ । इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृतः॑ ॥पुरुस्तुतस्य । धामभिः । शतेन । महयामसि । इन्द्रस्य । चर्षणिधृतः ॥puru-stutasya | dhāma-bhiḥ | śatena | mahayāmasi | indrasya | carṣaṇi-dhṛtaḥ