Sukta 3.37
नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे । इन्द्राभिमातिषाह्ये ॥
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे । इन्द्रा॑भिमाति॒षाह्ये॑ ॥
nāmā́ni te śatakrato víśvābhir gī́rbhir īmahe | índrābhimātiṣā́hye ||
O hundred-powered Indra, with all our uttered hymns we call upon thy Names—thy manifold presences—so that thou mayest conquer the hostile pressures that assail the soul.
नामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । विश्वा॑भिः । गीः॒ऽभिः । ई॒म॒हे॒ । इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥नामानि । ते । शतक्रतो इति शतक्रतो । विश्वाभिः । गीःभिः । ईमहे । इन्द्र । अभिमातिसह्ये ॥nāmāni | te | śatakrato itiśata-krato | viśvābhiḥ | gīḥ-bhiḥ | īmahe | indra | abhimāti-sahye